Tuesday, June 30, 2026

Pavanaj AShtakam श्री पवनजाष्टकम्

                             अथ   श्री पवनजाष्टकम्

श्री गुरुभ्ये नमः हरी ॐ 

भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् ।
भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥१॥

अमितविक्रमं अंजनासुतं भयविनाशनं त्वब्जलोचनम् ।
असुरघातिनं अब्धि लंघनं भजत सज्जना मारुतात्मजम् ॥२॥

परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम् ।
परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥३॥

कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम् ।
कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥४॥

मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम् ।
महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम् ॥ ५॥

द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम् ।
दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम् ॥ ६॥

कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम् ।
विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम् ॥ ७॥

पठति यः पुमान् पापनाशकं  पवनजाष्टकं पुण्यवर्धनम् ।
परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम् ॥८॥

इति श्री पवनजाष्टकम् संपूर्णं

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment