श्री राम नन्दन मयूरेश्वरकृतं
पाण्डुरङ्ग स्तोत्रं २
श्री गुरुभ्ये नमः हरी ॐ
बालदिगम्बर एको धूर्तः स्वान्तहरो मनुरेव स मूर्तः ।
भीमरथीसरितस्तट आस्ते लोकाः स्ववर्श नीता आस्ते॥ १॥
सर्वस्वस्य करोत्यपहारं तदपि वदन्ति जनास्तमुदारम् ।
द्रष्टुं यान्ति च वारंवारं प्रेम्णा श्लिप्यन्त्यपि चमुदारम् ॥ २॥
श्लिष्यन्त्येनं सुदृढं योषाः स्वामिसमक्षमचिन्तितदोषाः ।
चित्रमिदं विगतेर्ष्यारोषाः सर्वेऽपि भवन्त्येव सतोषाः ॥ ३॥
यस्य पुरः स्वजनेऽप्यनुकालं विवशा भापण्डितमावालं ।
गायन्त्युच्चैः कृतकरतालं नृत्यन्ति च विहसन्ति बतालम् ॥ ४॥
यं दृष्ट्वैव सकृस्खलु देहं सधनतनयदयितं निजगेहं ।
स्मरति म हृदयं त्यक्तस्नेहं वशिनं मन्ये तमसन्देहम् ॥ ५॥
ते इति पदच्छेदः
स्रग्विणीवृत्तम्
सख्यमापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः पावने ।
साधिता पुण्डरीकेण या साधुना सिद्धिरालिङ्ग्यते सज्जनैः साऽधुना ॥ १॥
क्वापि कस्मादपीषन्नदासादरं यान्त्विति त्यक्तनिद्रं सदासादरं ।
तिष्ठते या कलौ सानुकम्पाऽवनौ श्यामलाहं तदङ्घी भजे पावनौ ॥ २॥
विठ्ठलाख्या भवाब्धौ तरिःपारदा यां श्रिता वज्रवेदेन्दुभृन्नारदाः ।
स्थापयामास सद्धार्मिकः कोऽपि तां चेतसैवाश्रये साधुभिर्गोपिताम् ॥३॥
पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीं ।
साधुभिर्नृत्यमानामुदारां नटीं सम्पिबामोद्भुताङ्गीं सुधाया घटीम् ॥ ४॥
गाढमालिङ्ग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः । स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशङ्कं स्वमातुर्वदामो हिताम् ॥५॥
मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिन्तया साधुभिस्ताम्यते कीं मुधा ।
भीमरथ्यास्तटे स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा ॥ ६॥
तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया
बल्लवीनां सखीं देवतादेवतां चिन्तये चित्तमेत्युस्सवादेव ताम् ॥७॥
त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीं ।
ईयुरेवोत्सुकाः को न तो चिन्तयेन्निर्जितस्वर्गसत्पादपां सुन्दरीम् ॥ ८॥
को न तां चिन्तयेच्छुद्धिकामः कलौ यत्पदाम्भोज
निर्णेजनापां ततिः साधुनीराऽजिता शम्भुमौलावपि ॥ ९॥
सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवावरान्नित्यमभ्यासतः ।
पुण्डरीकेण या साधुनीराऽजिता भक्तवृन्दैः कलौ साधुनारं जिता ॥ १०॥
जीवनेनाप्यहोधीष्टकं तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः ।
श्यामलः कोपि दीपः पतङ्गप्रियःश्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ ११॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
पुण्डरीकेण या साधुनीराऽजिता भक्तवृन्दैः कलौ साधुनारं जिता ॥ १०॥
जीवनेनाप्यहोधीष्टकं तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः ।
श्यामलः कोपि दीपः पतङ्गप्रियःश्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ ११॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment