श्री पाण्डुरङ्गस्तोत्रं १
श्री गुरुभ्ये नमः हरी ॐ
अनुष्टुप छंद:
प्रसादं कामये नित्यं समदं पाण्डुरङ्गजं ।
नचोच्चैःश्रवसं नित्यं समदं पाण्डुरंगजम् ॥ १॥
वन्दे निजयशःपाननिष्ठं तं स्वरसादरं ।
शुद्धप्रेम्णामिष्टकायां तिष्ठन्तं स्वरसादरम् ॥२॥
पाण्डुरङ्गं सकृन्नत्वा कलिना मलिना अपि ।
भवन्ति भावुका भास्वदुचयः शुचयः सदा ॥ ३॥
संसृतौ कलिकाले यः सदरः सदरस्तुतेः ।
विठ्ठलादभयं प्राप्तः करुणावरुणालयात् ॥ ४॥
यञ्चेतः पाण्डुरङ्गस्य सदा चरणसादरम् ।
तं सन्तं नान्यमूचुर्ज्ञाः सदाचरणसादरम् ॥ ५॥
विठ्ठलेति जपेन्नाम पाण्डुरङ्गस्य यः सदा ।
कृपाकटाक्षा न विभोरन्त्यजं तं त्यजन्त्यहो ॥ ६॥
यः पिबत्यसकृन्नाम प्रभोर्भवगदार्दितः ।
ह्रेपयत्यमृत किं न स कलौ सकलौषधम् ॥ ७॥
मोचिताः पाण्डुरङ्गेण पतिता अतितापतः ।
अयमेव कलौ कीर्त्या निजया विजयावहः ॥ ८॥
नाम्ना यः पाति यमलं नाम्नायः स्तोतुमीश्वरम् ।
यशसा यस्य सद्वृन्दं समहं तमहं भजे ॥ ९॥
वैरस्यदर्शिना स्वर्गे कलौ वैरस्य कारिणा ।
यशसास्य प्रभोस्तीर्थे सज्जना मज्जनालसाः ॥ १०॥
वदन्ति विठ्ठलं विज्ञा जडेभ्योऽप्यतिदुर्लभा ।
या दीयते प्रभो! भक्तवश! सा यशसा तव ॥ ११॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्येऽपि सङ्कराः ।
रङ्कराजमुखाः सर्वे कृताः श्रीशेन शङ्कराः ॥ १२॥
पूर्वं प्रयासेनाविद्याविनाशमलभन्जनाः
प्रयासेनाविद्याविनाशमलभन् ।
अद्य नाम्ना प्रभोः कष्टं विनाशमलभं जनाः ॥ १३॥
पाण्डुरङ्गपुरं मोहो वदत्यत्रत्यमानसे ।
कथं तिष्ठामि विजये हन्त तेऽहं तते सति ॥ १४॥
नामसङ्कीर्तनप्रायं पाण्डुरङ्गपुरं विना ।
भ्रमम्भवति मेदिन्यां परितोऽपारतोषभाक् ॥ १५॥
पाण्डुरङ्गपुरे पीतप्रभुनामयशःसुधाः ।
बुधाः स्मरन्ति न स्वर्ग रष्टचक्रगदायुधाः ॥ १६॥
तीर्थान्यायाति सर्वाणि दैवतान्युस्सुकानि यत् ।
द्रष्टुं भगवतः को न चत्वरं सत्वरं व्रजेत् ॥ १७॥
पाण्डुरङ्गपुरं प्राप्य सर्वो ना रदति स्फुटम् ।
हरिनामयशोगाननिरतोऽविरतोत्सवः ॥ १८॥
पाण्डुरङ्गपुरं सन्तो भूवैकुण्ठं वदस्यहो! ।
एतत्तु सर्वसुलभं कुलभञ्जनमंहसाम् ॥ १९॥
प्रवर्तितेन परमामृतसत्रेण सर्वदा ।
पुण्डरीकेण सर्वोऽपि सत्रपः सत्रपःकृतः ॥ २०॥
पुण्डरीकेण सर्वार्यैः सत्कृतं सत्कृतं तथा ।
ब्रह्माण्डेत्र न केनापि कविना भविनाऽमलम् ॥ २१॥
अमुना यमुनारोधः पूर्वं भीमरथीतटं ।
पश्चादलङ्कृत गोपच्छद्माना पद्मानाभिना ॥ २२॥
दयालुना भगवता पाण्डुरङ्गेण बन्धुना ।
दीना हीना निजगतिं गमिता अमिता जनाः ॥ २३॥
पाण्डुरङ्गः प्रभुभक्तबहुमानवशंवदः ।
बिभर्ति भर्ता जगतां शिरसातिरसाच्छिवम् ॥ २४॥
शृण्वत्रभङ्गाननिशं तृप्तो नाद्यापि विठ्ठलः ।
कथं हरन्तु न सतामुक्तयो मुक्तयोगिनः. ॥ २५॥
धीः श्रियं जनता भक्तौ तामसीमामुदारतां ।
जानात्वच्छा प्रभोर्वेत्ति तामसीमामुदारताम्. ॥ २६॥
मधुपा अप्सु राजीवं सुरा जीवं यथा दिवि ।
उपासते तथा सन्तं पाण्डुरङ्गपुरे जनाः. ॥ २७॥
पाण्डुरङ्गपुरस्था ये जीवन्मुक्ता हितेऽखिलाः ।
यत्प्रभूक्तिः स्वतीर्थाप्तमज्जना मज्जना इति ॥ २८॥
मज्जनं चन्द्रभागायां पाण्डुरङ्गस्य दर्शनम् ।
कीर्तनश्रवणं यस्य स महासमहा भवे ॥ २९॥
तीर्थक्षेत्रं पाण्डुरङ्गो नामसङ्कीर्तनं कलौ ।
मलौधहृत्स्वमहसा सहसा रचितेंऽजलौ. ॥ ३०॥
विदा ज्ञानेन ठान् शून्यान्लाति गृह्णाति विठ्ठल ।
निरुक्तमिदमस्माकं चरमं परमं बलम्. ॥ ३१॥
जडोद्धारयशोग्रन्थग्रहह्रीतसुमेधसे ।
नमो भगवते तस्मै पाण्डुरङ्गायवेधसे. ॥ ३२॥
नमोऽस्तु पितृभक्ताय पुण्डरीकाय साधवे ।
जडोद्धारव्रतंपुण्य प्रभावाद्यस्य माधवे. ॥ ३३॥
ज्ञानदेवैकनाथाद्या नामदेवादयोऽपरे ।
तेभ्यो नमोऽस्तु यैर्भक्तया राञ्जितोऽरं जितोऽजितः॥ ३४॥
इति श्री रामनन्दन मयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं १ सम्पूर्णम्

श्री कृष्णार्पणमस्तु
No comments:
Post a Comment