Friday, July 03, 2026

PAÑDURANGA Stotram ॐ श्री पाण्डुरङ्ग विठ्ठल स्तोत्रम्

ॐ श्री पाण्डुरङ्ग विठ्ठल स्तोत्रम्

श्री गुरुभ्ये नमः हरी ॐ 
श्रीकान्तं कमलावरं वररुचिं श्रेष्ठं रमावल्लभं
मोक्तारं कलिपङ्कमग्न जनतावृन्दस्य भक्तप्रियम् ।
गोगोपीगण वेष्टितं मधुरया वाण्या स्तुतं सज्जनैः
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ १॥

पृथ्वीवार्यनलानिलाम्बरमयं विश्वं धृतं लीलया
येन स्वात्परमार्थतो ह्यनपरं नानाकृति भ्रामकम् ।
हेतुस्तद् व्यवहार जातसुलभं भूयादवस्थाक्रमात्
भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ २॥

गन्धर्वाः सुरकिन्नरासुरगणाः गायन्ति यं सुस्वरैः
वेदर्चा किल नेति नेति वचनैः स्तोतुं गता किङ्करी ।
यं द्रष्टुन्न शशाक यत्नबहुलैरुग्रैस्तपोभिर्मुनिः
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ३॥

नैवान्यद्भजनीयमस्त्यतिविशालेऽस्मिन् महीमण्डले
पुण्यैस्तीर्थजलैरपावितजनाः शुद्ध्यन्ति यद्दर्शनात् ।
यद्यद्काङ्क्षति सात्विकोऽन्यगतिकः प्राप्नोति यत्कीर्तनात
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ४॥

यन्नामस्मरणात्पुनन्ति सुजनाः सद्बुद्धिभिःसाधकान्
सामान्योऽपि नरो यदीय भजनात्मुक्तीं गतो दुर्लभान् ।
अस्वस्थं विकलं मनश्व भजते शान्तिं पदस्पर्शनात्
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ५॥

कस्मै कुत्र कथं कियद् वितरणं कार्यं च कस्मिन्क्षणे
सूक्ष्मस्थूलतमं कृताकृतमहो जानाति यः सर्वदा ।
तुल्या येन न शक्तिरस्ति परमाकस्याऽपि विश्वाखिले
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ६॥

भूमौ पावनपावनौच चरणौ स्तो यस्य कल्पद्रुमौ
धीर्मेधा सद्सद्विवेक करणी प्रज्ञा प्रसन्ना यतः ।
सर्वं सार्थकतां प्रयाति जननं यस्य प्रसादात्ध्रुवं
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ७॥

ज्ञानेशादिभिरर्चितं पदयुगं सद्भिः सदैवान्वितैः
ध्येयं नास्ति विना यदीयवदनाल्लोके परं सुन्दरात् ।
यद्पादाम्बुजमाक्षिकं परिमलं चास्वाद्यते भावुकैः
तं भीमातटवासिनं प्रभुवरं श्रीपाण्डुरङ्गं भजे ॥ ८॥

पूता विशालजनता कृपया च येन
भीमातटे विहरता कमलेक्षणेन ।
संसारतप्तशरणागत वत्सलेन
तं विठ्ठलं सुजनवन्द्यतमं नमामि ॥ ९॥

मित्रप्रीतिवशादेतद् वरदानन्दभारती ।
कृतवान् विठ्ठलस्तोत्रंचित्तवृत्तिप्रसादकम् ॥
इति श्री स्वामी वरदानन्दभारतीविरचितं 
श्री पाण्डुरङ्ग विठ्ठल स्तोत्रं सम्पूर्णम्   

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment