Wednesday, July 08, 2026

Raghavendra Daridryamochana Stotram श्रीराघवेन्द्र दारिद्र्य मोचन स्तोत्रम्

                    श्री राघवेन्द्र दारिद्र्य मोचन स्तोत्रम्
श्री गुरुभ्ये नमः हरी ॐ 

श्रितानां पादं ते सकलविधया शोकहरणः
त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥

रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता
कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥

घनाघो वा दीनो वावयवविकलो वाक्षविकलः
प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३॥

वदान्यात् त्वद्भूमौ दिवि सुरभिकल्पद्रुमदृषदां
लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४॥

द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय
त्वदन्यो दाता चेद्भवति कथमायामि वाद मे ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५॥

यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान्
व्रजन् देशंव्रजन्देशं देशं श्रमजनिरभूवं न च धनी ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६॥

न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे
त्यमुं मा दारिद्र्यव्यसनपरिपिण्डीकृतहृदयम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७॥

महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना
जरत्काकावस्थां भृशमनुभवामीश किमिदम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८॥

गुरोः पुत्रः सुकविरवधूतः स्तवमहं
चकारैकश्वासात सरलमिममादृत्य पठताम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९॥

इति श्री कृष्णावधूतविरचित श्रीराघवेन्द्रतन्त्रे
नवमपटले दारिद्र्य मोचन स्तोत्रं सम्पूर्णः ।  
श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment