Thursday, July 09, 2026

Raghavendra Apatpariharana Stotram श्रीराघवेन्द्र आपत्परिहरण स्तोत्रम्

श्री राघवेन्द्र आपत् परिहरण स्तोत्रम्
श्री गुरुभ्ये नमः हरी ॐ 

श्रीकामुकाय बहुशोकाय तत्सुखमभीकाशु यच्छसि हि भो
लोकाय तद्दुरितपाकाप्त पङ्गुजडमूकादिभावहरण ।
श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भो
दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ १॥

राजादि भक्तजन पूजालसत्पदपयोजाम्बुबिन्दुरपि
बीजायते सुविधिभुजाय दूननृषु ते जागरूककरुणः ।
श्रीराघवेन्द्रपदवर्यादिभोगभवघोराघमाशु हर भोः
दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ २॥

घोटीमदेभवरशाटीविराजिनृपकोटीशिरोविधृत -
कोटीररत्नपरिपाटीभृशारुणितपाटीरपादुक विभो ।
श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः
दारात्मजादिभववाराशिसम्भवदपापापदः शमय भोः ॥ ३॥

वेदादिदूषककुवादादराध्य सुमोदावदाहकमहा -
दावदोषविधुरे दानवद्विषि ममादाय धेहि हृदयम् ।
श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः
दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ४॥

द्राक्षामधुक्षरण शैक्षाकरामल कटाक्षावलोकत उत
तत्क्षामतां हरसि भैक्षाटकस्य भुवि लक्षाधिकस्य सपदि ।
श्रीराघवेन्द्र पदवरीयादि भोगभव घोराघमाशु हर भोः
धारात्मजादि भववाराशै सम्भवदपारापदः शमयो भोः ॥ ५॥

यानादिसम्पदमनूनामवाप्तुमहमानायि पूर्वसृकृ
तेनाग्र्यते पदमतोऽनादि दुर्दुरितमानाशयाशु ममभोः ।
श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः
दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ६॥

नागारिवाहपदयोगादरामितदागारदारधन
भोगावनाप्तुमनुरागत तवाभिमतिवेगादुपैमि सुखदम् ।
श्रीराघवेन्द्र पदवीर्यादि भोगभव घाराघमाशु हर भोः
दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ७॥

मन्त्रालयस्य तव मन्त्रादिजप्तुररिमन्त्रादि संहतित
तन्त्राभवत्यखिलतन्त्र्याधिकेष्वपरतन्त्रावमामुपगतम् ।तन्त्राभवत्यखिलतन्त्र्याधिकेष्वपरतन्त्रावमामुपगतम्
श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः
दारात्मजादि भववाराति सम्भवदपारापदः शमय भोः ॥ ८॥

कृष्णावधूतकृतमिष्टार्थदानचणमष्टार्थमन्त्र परि
पुष्टातुलस्तमवकष्टावह शुभमरिष्टाहरं पठतियः ।
श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः
दारात्मजादि भववाराशिसम्भवदपारापदः शमय भोः ॥ ९॥

इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे 
आपत्परिहरणस्तोत्रम् नामआपत्परिहरणस्तोत्रम् सम्पूर्णः ।
श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment