Friday, July 10, 2026

Raghavendra Duhkha Harana Stotram श्री राघवेन्द्र दुःखहरण स्तोत्रम्

श्रीकृष्णावधूतविरचित
श्री राघवेन्द्र दुःखहरण स्तोत्रम्

श्री गुरुभ्ये नमः हरी ॐ 
श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥

राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥

घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥

वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥

द्रागिष्टं दास्यसि भक्तेभ्यस्त्वमिति श्रुत्वा त्वापं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ५॥

यद्यपि दयालुरिति विख्यातस्तर्हिदृक्षं मामुद्धर भोः । 
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ६॥

न ममोद्धर्ता चेत् त्वंभुवि ते दिविजद्रुम सुयशः किं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ७॥

मायापाशविबद्धो नाहं जाने विवेकलवमपि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ८॥

कृष्णावधूतविरचितमष्टकमेतत् पठतां सकल भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ९॥

इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे 
दुःखहरणस्तोत्रं नाम तृतीयोऽध्यायः सम्पूर्णः । 

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment