Showing posts with label PUN. Show all posts
Showing posts with label PUN. Show all posts

Sunday, January 10, 2021

PUNYAHA VACHANAM PRAYOGAH. पुण्याहवाचनं

पुण्याहवाचन
पुण्याहवाचनके दिन आरम्भमें वरुण कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे । वरूण-
कलशके पूजनके साथ-साथ इसका भी पूजन कर लेना चाहिये । पुण्याहवाचनका कर्म इसीसे 
किया जाता है । सबसे पहले वरूणकी प्रार्थना करे ।
वरूण प्रार्थना-
ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।
पुण्याहवाचनं यावत्‍ तावत्‍त्वं सुस्थिरो भव ॥
यजमान अपनी दाहिनी और पुण्याहवाचन-कर्मके लिये वरण किये हुए युग्म ब्राह्मणोंको, जिनका 
मुख उत्तरकी ओर हो, बैठा ले । इसके बाद यजमान घुटने टेककर कमलकी कोंढीकी तरह अञ्जलि 
बनाकर सिरसे लगाकर तीन बार प्रणाम करे । तब आचार्य अपने दाहिने हाथसे स्वर्णयुक्त उस
जलपात्र (लोटे) को यजमानकी अञ्जलिमें रख दे । यजमान उसे सिरसे लगाकर निम्नलिखित 
मन्त्र पढकर ब्राह्मणोंसे अपनी दीर्घ आयुका आशीर्वाद माँगे -
यजमान-
ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
तेनायु: प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥
यजमानकी इस प्रार्थनापर ब्राह्मण निम्नलिखित आशीर्वचन बोलें -
ब्राह्मण-
अस्तु दीर्घमायु: ।
अब यजमान ब्राह्मणोंसे फिर आशीर्वाद माँगे-
यजमान-
ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्य: । अतो धर्माणि धारयन्‍ ॥
तेनायु: प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-
पुण्यं पुण्याहं दीर्घमायुरस्तु ।
यजमान और ब्राह्मणोंका यह संवाद इसी आनुपूर्वीसे दो बार और होना चाहिये । अर्थात्‍ आशीर्वाद 
मिलनेके बाद यजमान कलशको सिरसे हटाकर कलशके स्थानपर रख दे । फिर इस कलशको 
सिरसे लगाकर -
‘ॐ दीर्घा नागा नद्यो ...... रस्तु’
बोले इसके बाद ब्राह्मण ‘दीर्घमायुरस्तु’ बोलें ।
इसके बाद यजमान पहलेकी तरह कलशको कलश-स्थानपर रखकर फिर सिरसे लगाकर 
‘ॐ दीर्घा नागा ....... रस्तु’ कहकर आशीर्वाद माँगे और ब्राह्मण ‘ ‘दीर्घमायुरस्तु’ यह कहकर आशीर्वाद दें ।
यजमान-
ॐ अपां मध्ये स्थिता देवा: सर्वमप्सु प्रतिष्ठितम्‍ ।
ब्राह्मणानां करे न्यस्ता: शिवा आपो भवन्तु न: ॥
ॐ शिवा आप: सन्तु ।
ऐसा कहकर यजमान ब्राह्मणोंके हाथोंमें जल दे ।
ब्राह्मण-
सन्तु शिवा आप: ।
अब यजमान निम्नलिखित मन्त्र पढकर ब्राह्मणोंके हाथोंमें पुष्प दे -
यजमान-
लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ 
सौमनस्यमस्तु ।
ब्राह्मण-
‘अस्तु सौमनस्यम्‍’
ऐसा कहकर ब्राह्मण पुष्पको स्वीकार करें ।
अब यजमान निम्नलिखित मन्त्र पढकर ब्राह्मणोंके हाथमें अक्षत दे -
यजमान-
अक्षतम चास्तु मे पुण्यं दीर्घमायुर्यशोबलम्‍ ।
यद्यच्छेयस्करं लोके तत्तदस्तु सदा मम ॥ अक्षतं चारिष्टं चास्तु ।
ब्राह्मण-‘अस्त्वक्षतमरिष्टं च’ ।-
ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमे चन्दन, 
अक्षत, पुष्प आदि देता जाय और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मंगलकामना करें ।
यजमान-(चन्दन) गन्धा: पान्तु ।
ब्राह्मण-सौमडगल्यं चास्तु ।
यजमान-(अक्षत) अक्षता: पान्तु ।
ब्राह्मण-आयुष्यमस्तु ।
यजमान-(पुष्प) पुष्पाणि पान्तु ।
ब्राह्मण-सौश्रियमस्तु ।
यजमान-(सुपारी-पान) सफलताम्बूलानि पान्तु ।
ब्राह्मण-ऐश्वर्यमस्तु ।
यजमान-(दक्षिणा) दक्षिणा: पान्तु ।
ब्राह्मण-बहुदेयं चास्तु ।
यजमान-(जल) आप: पान्तु ।
ब्राह्मण-स्वर्चितमस्तु ।
यजमान-(हाथ जोडकर) दीर्घमायु: शान्ति: पुष्टिस्तुष्टि: श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।
ब्राह्मण-‘तथास्तु’-
ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिडककर निम्नलिखित वचन बोलकर आशीर्वाद दें -
ॐ दीर्घमायु: शान्ति: पुष्टिस्तुष्टिश्चास्तु ।
यजमान-(अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भा: शुभा: शोभना: प्रवर्तन्ते, 
तमहमोगांरमादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समानुज्ञातं भवद्भिरनुज्ञात: पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण-‘वाच्यताम्‍’-ऐसा कहकर निम्न मन्त्रोंका पाठ करें -
ॐ द्रविणोदा: पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥
सविता त्वा सवाना सुवतामग्निर्गृहपतीना सोमो वनस्पतीनाम्‍ ।
बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्र: पशुभ्यो मित्र: सत्यो वरुणो धर्मपतीनाम्‍ ।
न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोज: प्रथमज होतत्‍ ।
यो बिभर्ति दाक्षायण हिरण्य स देवेषु कृणुते दीर्गमायु: स मनुष्येषु कृणुते दीर्घमायु: ।
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रव: ॥
उपास्मै गायता नर: पवमानायेन्दवे । अभि देवाँ२ इयक्षते ।
यजमान-व्रतजपनियमतप: स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां 
ब्राह्मणानां मन: समाधीयताम्‍ । ब्राह्मण-समाहितमनस: स्म: । यजमान-प्रसीदन्तु भवन्तु: ।
ब्राह्मण-प्रसन्ना: स्म: ।
इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेंसे पहले सकोरेमें आमके पल्लव या दूबसे थोडा-थोडा जल कलशसे डाले और ब्राह्मण बोलते जायँ -
पहले पात्र (सकोरे) में-ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ आयुष्यमस्तु । ॐ आरोग्यमस्तु । ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्मसमृद्धिरस्तु । ॐ धर्मसमृद्धिरस्तु । ॐ वेदसमृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । ॐ धनधान्यसमृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । 
ॐ इष्टसम्पदस्तु ।
दूसरे पात्र (सकोरे) में-ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभकल्याणं तद्‍ दूरे प्रतिहतमस्तु ।
पुन: पहले पात्रमें-
ॐ यच्छे‍यस्तदस्तु । ॐ उत्तरे कर्मणि निर्विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तरा: क्रिया: शुभा: शोभना: सम्पद्यन्ताम्‍ । ॐ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नसम्पदस्तु । ॐ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवता: प्रीयन्ताम्‍ । ॐ तिथिकरणे समुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम्‍ । ॐ दुर्गापाञ्चाल्यौ प्रीयेताम्‍ । ॐ अग्निपुरोगा विश्वेदेवा: प्रीयन्ताम्‍ । ॐ इन्द्रपुरोगा मरुद्गणा: प्रीयन्ताम्‍ । ॐ वसिष्ठपुरोगा ऋषिगणा: प्रीयन्ताम्‍ । ॐ माहेश्वरीपुरोगा उमामातर: प्रीयन्ताम्‍ । ॐ इन्द्रपुरोगा मरुद्गणा: प्रीयन्ताम्‍ । ॐ वसिष्ठपुरोगा ऋषिगणा: प्रीयन्ताम्‍ । ॐ माहेश्वरीपुरोगा उमामातर: प्रीयन्ताम्‍ । ॐ अरुन्धतीपुरोगा एकपत्न्य: प्रीयन्ताम्‍ । ॐ ब्रह्मपुरोगा: सर्वे वेदा: प्रीयन्ताम्‍ । ॐ विष्णुपुरोगा: सर्वे देवा: प्रीयन्ताम्‍ । ॐ ऋषयश्छन्दांस्याचार्या वेदा देवा यज्ञाश्च प्रीयन्ताम्‍ । ॐ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम्‍ । ॐ श्रीसरस्वत्यौ प्रीयेताम्‍ । ॐ श्रद्धामेधे प्रीयेताम्‍ । ॐ भगवती कात्यायनी प्रीयताम्‍ । ॐ भगवती माहेश्वरी प्रीयताम्‍ ॐ भगवती ऋद्धिकरी प्रीयताम्‍ । ॐ भगवती वृद्धिकरी प्रीयताम्‍ । ॐ भगवती पुष्टिकरी प्रीयताम्‍ । ॐ भगवती तुष्टिकरी प्रीयताम्‍ । ॐ भगवन्तौ विघ्नविनायकौ प्रीयेताम्‍ । ॐ सर्वा: कुलदेवता: प्रीयन्ताम्‍ । ॐ सर्वा ग्रामदेवता: प्रीयन्ताम्‍ । ॐ सर्वा इष्टदेवता: प्रीयन्ताम्‍ ।
दूसरे पात्रमें-
ॐ हताश्च ब्रह्मद्विष: । ॐ हताश्च परिपन्थिन: । ॐ हताश्च कर्मणो विघ्नकर्तार: । ॐ शत्रव: 
पराभवं यान्तु । ॐ शाम्यन्तु घोराणि । ॐ शाम्यन्तु पापानि । ॐ शाम्यन्तीतय: । ॐ शाम्यन्तूपद्रवा: ॥
पहले पात्रमें-
ॐ शुभानि वर्धन्ताम्‍ । ॐ शिवा आप: सन्तु । ॐ शिवा ऋतव: सन्तु । ॐ शिवा ओषधय: सन्तु । 
ॐ शिवा वतस्पतय: सन्तु । ॐ शिवा अतिथय: सन्तु । ॐ शिवा अग्नय: सन्तु । ॐ शिवा आहुतय: सन्तु 
। ॐ अहोरात्रे शिवे स्याताम्‍ ।
ॐ निकामे निकामे न: पर्जन्यो वर्षतु फलवत्यो न ओषधय: पच्यन्तां योगक्षेमो न: कल्पताम्‍ ॥
ॐ शुक्राड्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा: सर्वे ग्रहा: प्रीयन्ताम्‍ । 
ॐ भगवान्‍ नारायण: प्रीयताम्‍ । ॐ भगवान्‍ पर्जन्य: प्रीयताम्‍ । ॐ भगवान्‍ स्वामी महासेन: प्रीयताम्‍ । 
ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु । ॐ वाज्यया यत्पुण्यं तदस्तु । ॐ वषट्‍कारेण यत्पुण्यं तदस्तु । 
ॐ प्रात: सूर्योदये यत्पुण्यं तदस्तु ।
इसके बाद यजमान कलशको कलशके स्थानपर रखकर पहले पात्रमें गिराये गये जलसे मार्जन करे । 
परिवारके लोग भी मार्जन करें । इसके बाद इस जलको घरमें चारों तरफ छिडक दे । द्वितीय 
पात्रमें जो जल गिराया गया है, उसको घरसे बाहर एकान्त स्थानमें गिरा दे ।
अब यजमान हाथ जोडकर ब्राह्मणोंसे प्रार्थना करे -
यजमान-ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण-वाच्यताम्‍ ।
इसके बाद यजमान फिरसे हाथ जोडकर प्रार्थना करे -
यजमान-ॐ ब्राह्मं पुण्यमहर्यच्च सृष्टयुत्पादनकारकम्‍ ।
(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम ....... सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: 
पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
यजमान-भो ब्राह्मणा: ! मम --- करिष्यमाणस्य अमुककर्मण: (दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
यजमान-भो ब्राह्मणा: ! मम ... करिष्यमाणस्य अमुककर्मण: (तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
ॐ पुनन्तु मा देवजना: पुनन्तु मनसा धिय: ।
पुनन्तु विश्वा भूतानि जातवेद: पुनीहि मा ॥
यजमान-पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्‍ ।
(पहली बार) ऋषिभि: सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: 
कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ कल्याणम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे 
(दूसरी बार) करिष्यमाणस्य 
अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु । ब्राह्मण-ॐ कल्याणम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (तीसरी बार) करिष्यमाणस्य 
अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ कल्याणम्‍ ।
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्य: । ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च । 
प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे काम: समृद्धयतामुप मादो नमतु ।
यजमान-ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभि: कृता ।
(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दूसरी बार)  करिष्यमाणस्य अमुककर्मण: 
ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ ऋद्धयताम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्य (तीसरी बार) माणस्य 
अमुककर्मण: ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ ऋद्धताम्‍ ।
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्या अध्याऽरुहामाविदाम 
देवान्त्स्वर्ज्योति: ॥
यजमान-ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
(पहली बार) विनायकप्रिया नित्यं ता च स्वस्तिं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे 
स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दुसरी बार) करिष्यमाणाय 
अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारास्य गृहे (तीसरी बार) करिष्यमाणाय 
अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: 
स्वस्ति नो बृहस्पतिर्दधातु ॥
यजमान-ॐ समुद्रमथनाज्जाता जगदानन्दकारिका । (पहली बार) हरिप्रिया च मांगल्या 
तां श्रियं च ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: श्रीरस्तु 
इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दूसरी बार) करिष्यमाणस्य 
अमुककर्मण: श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (तिसरी बार) करिष्यमाणस्य 
अमुककर्मण: श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणिरुपमश्विनौ व्यात्तम्‍ । इष्णान्निषाणामुं 
म इषाण सर्वलोकं म इषाण ॥
यजमान-ॐ मृकण्डुसूनोरायुर्यद्‍ ध्रुवलोमशयोस्तथा ।
आयुषा तेन संयुक्ता जीवेम शरद: शतम्‍ ॥
ब्राह्मण-ॐ शतं जीवन्तु भवन्त: ।
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्‍ ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तो: ॥
यजमान-
ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण-
ॐ अस्तु श्री: ।
ॐ मनस: कामकाकूतिं वाच: सत्यमशीय । पशूना रुपमन्नस्य रसो यश: श्री: श्रयतां मयि स्वाहा ॥
यजमान-
प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट्‍ । भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वत: ॥
ब्राह्मण-
ॐ भगवान्‍ प्रजापति: प्रीयताम्‍ । ॐ प्रजापते न त्वेदान्यन्यो विश्वा रुपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तनो अस्तु वय स्याम पतयो रयीणाम्‍ ॥
यजमान-
आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
श्रिये दत्ताशिष: सन्तु ऋत्विग्भिर्वेदपारगै: ॥
देवेन्द्रस्य यथा स्वस्ति यथा स्वस्ति गुरोर्गृहे ।
एकलिड्गे यथा स्वस्ति तथा स्वस्ति सदा मम ॥
ब्राह्मण-
ॐ आयुष्मते स्वस्ति ।
ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम्‍ ।
येन विश्वा: परि द्विषो वृणक्ति विन्दते वसु ॥
ॐ पुण्याहवाचनसमृद्धिरस्तु ॥
यजमान-
अस्मिन्‍ पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्‍ श्रीमहागणपति
प्रसादाच्च परिपूर्णोऽस्तु ।
दक्षिणाका संकल्प-कृतस्य पुण्याहवाचनकर्मण: समृद्धयर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य 
इमां दक्षिणां विभज्य अहं दास्ये ।

ब्राह्मण-ॐ स्वस्ति ।