अथ श्री अगस्त्य मुनि विरचितं
|| श्री लक्ष्मी स्तोत्रम् ||
श्री गुरुभ्यो नमः हरि: ॐ
पद्मे पद्म पलाशाक्षी जयत्वं श्रीपति प्रिये |
जगन्मातर्महालक्ष्मि संसारार्णवतारिणी ||
महालक्षी नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि |
हरि प्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे || 1 ||
पद्मालये नमस्तुभ्यं
नमस्तुभ्यंच सर्वदे |
जगन्मातर नमस्तुभ्यं
नमस्तुभ्यं गुणा निधे |दयावती नमस्तुभ्यं विश्वेश्वरि नमोस्तुते || 3 ||
नमः क्षिरार्णवसुते नमः त्र्येलोक्य धारिणी |वसु वृष्ट्यै नमस्तुभ्यं रक्षमां शरणागतं ||4||
रक्षत्वम् देव देवेशि देव देवस्य वल्लभे |दारिद्र्यां त्राहिमां लक्ष्मी कृपां कुरु ममोपरि || 5 ||
नमः त्र्येलोक्यजननि
नमः त्र्येलोक्य पावनि |
ब्रह्मादयो नमंतित्वाम् जगदानंदयायिनि || 6 ||
विष्णु प्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते |
अर्त्री हंत्री नमस्तुभ्यं
समृद्धिं कुरुमे सदा || 7 ||
अब्जवासे नमस्तुभ्यं चपलायै नमोनमः |
चंचलायै नमस्तुभ्यं ललितायै नमोनमः || 8 ||
शरण्यै त्वाम्
प्रपन्नोस्मि कमले कमलालये |
त्राहि त्राहि महालक्ष्मी परित्राण परायणे || 9 ||
पांडित्यं शोभते नैव न शोभंते गुणानरे
| शील त्वम् नैव शोभेत महालक्ष्मी
त्वया विना ||10 ||
तावद्विराजते रूपं
तावच्छिलं विराजते | ताव द्गुणा नराणांच यावल्ल्क्षमीः प्रसिदतिः || 11 ||
लक्षी त्वयालंकुत मानवा ये पापैर्विमुक्ता नृप लोकमान्याः | गुणैर्विहिना गुणिनो भवंति
दुश्शिली नश्शिलवतां वरिष्ठाः || 12 ||
लक्ष्मिर्भुषयते रूपम्
लक्ष्मिर्भुषयते कुलम् |लक्ष्मिर्भुषयते विद्याम् सर्वा लक्ष्मिर्विशिष्यते || 13 ||
लक्ष्मी त्वद् गुण किर्तनेन कमला भुर्यात्यलं जिह्मतां | रुद्राद्या रविचंद्र देव पतयो वक्तुं च नैव क्षमाः ||14 ||
अस्मा भि स्तव रूप लक्षण गुणान् वक्तुं कथं शक्यते | मातर्मांम्
परिपाहि विश्वजननि कुत्वाम् म मेष्ठं ध्रुवं || 15 ||
दिनार्थि भीतं
भवताप पीडितं | धनैर्विहीनं तव
पार्श्वमागतम् | कृपा निधित्वान् मम लक्ष्मी सत्वरम् | धनप्रदानाद्धन नायकं
कुरु ||16 ||
त्वमेव जननी लक्ष्मी
पिता त्वमेव च | भ्राता त्वं च सखा
लक्ष्मी विद्या लक्ष्मी स्त्वमेवच |दारिद्र्या र्णव मग्नोऽहं
निमग्नोऽहं रसातले | मज्जं तं मां करे धुत्वा सूद्धरत्वम् रमे
धृतम || 17 ||
किं लक्ष्मी बहुनोक्तेन जल्पितेन पुनः पुनः | अन्यन मे शरणं
नास्ति सत्यं सत्यं हरिप्रिये |एतः च्छुत्वा s गस्त्यवाक्यं हृष्यमाणा हरी प्रिया | उवाच मधुरां वाणीम्
तुष्ट्वाहं तव सर्वदा || 18 ||
श्री लक्ष्मौ उवाच ||
यत्व योक्त मिदं मिदं स्तोत्रम् यः पठिष्यति मानवः | श्रुणोतिच
महाभागत्स्य्याहं वशवर्तिनी |नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति | ऋणंच
नश्यते तीव्रं वियोगं नैव पश्यति || 19 ||
यः पठेत प्रातरुत्थाय श्रद्धा भक्ति समन्वितः | गृहे तस्य
सदा स्वास्थ्यै नित्यं श्रिपतिना सह |
सुख सौभाग्य संपन्नो
मनस्वि बुद्धिमान् भवेत् | पुत्रवान् गुणवान् श्रेष्ठो भोग भोक्ताच मानवः || 20 ||
इदं स्तोत्रम् महापुण्यं
लक्ष्म्यास्च्यागस्त्य कीर्तितं | विष्णुप्रसाद जननं चतुर्वर्ग फलप्रदम् |
न शास्त्रा न लतोयैघा द्भयं तस्य प्रजायते | दुर्वृत्यानां च
पापानां बहु हानि करं परं || 21 ||
मंदुराकरिशालासु
गवां गोष्टे समाहितः | पठॆतद्दोष शांत्यर्थं
महापातक नाशनं | सर्व सोख्यकरं नृणां आयुरारोग्यदं तथा | अगस्त्य मुनिना
प्रोक्तं प्रजानां हित काम्यया || 22 ||
इति श्रीमन् महर्षि अगस्त्य विरचित श्री लक्ष्मी स्तोत्रम्
संपूर्णं || || श्री
कृष्णार्पणमस्तु ||
No comments:
Post a Comment