Wednesday, January 26, 2022

*NAVAGRAHA BIJA,VEDA,PURAANA MANTRA नवग्रह बीज,वेद,पुराण मन्त्राणि

Please listen video of this post on YouTube channel CLICK HERE 

नवग्रह बीज,वेद,पुराण स्तोत्राणि   

सूर्य बीज मंत्र - ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः।

वेद मन्त्र : ॐ आ कृष्णेन रजसा वर्तमानो विनेशयन्नमृतं मत्र्यं च। 

हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्।।    पुराण मन्त्र  : जपाकुसुम संकाशं काश्यपेयं महद्युतिंतमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं 

(रवि)सूर्य स्तोत्र || Surya Stotram

प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं हि मण्डलमृचोऽथ तनुर्यजूंषी । सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्य चिन्त्यरूपम् ।।1।।

प्रातर्नमामि तरणिं तनुवाऽमनोभि ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च। वृष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य पालनपरंत्रिगुणात्मकं च ।।2।।

प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं चं। तं सर्वलोक कनकात्मक कालमूर्ति गोकण्ठबंधन विमोचनमादिदेवम् ।।3।।

ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने:।आप्रा धावाप्रथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्र्व ।।4।।

सूर्यो देवीमुषसं रोचमानां मत्योन योषामभ्येति पश्र्वात् ।यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ।।5।।

सोमस्तोत्र ( Chandra Stotram )

चंद्र बीज मंत्र - ॐ श्रां श्रीं श्रौं सः चंद्रमसे नमः।

वेद मन्त्र : ॐ आप्यायस्य समेतुते विश्वतः | सोम वृष्ण्यं भवा वाजस्य संगथे ||

पुराण मन्त्र : दधिशंख तुषाराभं क्षीरोदार्णव संभवं नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं (चंद्र)

अथ सोमस्तोत्र प्रारम्भः ।

अस्य श्रीसोमस्तोत्रमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । सोमो देवता । सोमप्रीत्यर्थे जपे विनियोगः ।

वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः ।

वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः ।

वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । वां हृदयाय नमः । वीं शिरसे स्वाहा ।

वूं शिखायै वषट् । वैं कवचाय हुम् ।

वौं नेत्रत्रयाय वौषट् । वः अस्त्राय फट् ।

भूर्भुवः स्वरोमिति दिग्बन्धः ।

ध्यानम् ।

श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं

श्वेताश्वयुक्त रथगं सुरसेविताङ्घ्रिम् ।

दोर्भ्यां धृताभयगदं वरदं सुधांशुं

श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रं  ॥ १॥

आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च । प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरो नोऽवतु रोहिणीशः ॥ २॥

चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।

कलानिधिं कान्तरूपं केयूरमकुटोज्ज्वलम् ॥ ३॥

वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।

वसुधाह्लादनकरं विधुं तं प्रणमाम्यहम् ॥ ४॥

श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ।

श्वेतछत्रोल्लसन्मौलिं  शशिनं प्रणमाम्यहम् ॥ ५॥

सर्वं जगज्जीवयसि सुधारसमयैः करैः ।

सोम देहि ममारोग्यं सुधापूरितमण्डलम् ॥ ६॥

राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।

राजा नाथश्चौषधीनां रक्ष मां रजनीकर ॥ ७॥

शङ्करस्य शिरोरत्नं शार्ङ्गिणश्च विलोचनम् ।

तारकाणामधीशस्त्वं तारयाऽस्मान्महापदः ॥ ८॥

कल्याणमूर्ते वरद करुणारसवारिधे ।

कलशोदधिसञ्जातकलानाथ कृपां कुरु    ॥ ९॥

क्षीरार्णवसमुद्भूत चिन्तामणिसहोद्भव ।

कामितार्थान् प्रदेहि त्वं कल्पद्रुमसहोदर ॥ १०॥

श्वेताम्बरः श्वेत विभूषणाढ्यो गदाधरः श्वेत रुचिर्द्विबाहुः । चन्द्रः सुधात्मा वरदः किरीटी श्रेयांसि मह्यं प्रददातु देवः ॥ ११॥

इदं निशाकर स्तोत्रं यः पठेत् प्रत्यहं नरः ।

उपद्रवात्स मुच्येत नात्र कार्या विचारणा ॥ १२॥


मङ्गल स्तोत्रम् Mangala Stotram 

मंगल बीज मंत्र - ॐ क्रां क्रीं क्रौं सः भौमाय नमः।

वेद मन्त्र : अग्निर्मूर्धा दिव: ककुत्पति: पृथिव्या अयम्। अपा रेता सि जिन्वति।।

पुराण मन्त्र : धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं | कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं (मंगळ)

ऋण मोचक मंगल स्तोत्रं (Mangal Stotra)

रक्ताम्बरो रक्तवपु: किरीटी चतुर्मुखो मेघगदी गदाधृक्। धरासुत: शक्तिधरश्र्वशूली सदा मम स्याद्वरद: प्रशान्त: ।।1।।

ॐमंगलो भूमिपुत्रश्र्व ऋणहर्ता धनप्रद:। 

स्थिरात्मज: महाकाय: सर्वकामार्थसाधक: ।।2।।

लोहितो लोहिताऽगश्र्व सामगानां कृपाकर:। 

धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ।।3।।

अंऽगारकोतिबलवानपि यो ग्रहाणं स्वेदो दृवस्त्रिनयनस्य पिनाकपाणे: । आरक्त चन्दन सुशीतलवारिणायोप्यभ्यचितोऽथ विपलां प्रददाति सिद्धिम् ।।4।।

भौमो धरात्मज इति प्रथितः प्रथिव्यांदुःखापहो दुरितशोकसमस्तहर्ता। न्रणाम्रणं हरित तान्धनिन: प्रकुर्याध: पूजित: सकलमंगलवासरेषु ।।5।।

एकेन हस्तेन गदां विभर्ति त्रिशूलमन्येन ऋजुकमेण। शक्तिं सदान्येन वरंददाति चतुर्भुजो मंगलमादधातु ।।6।।

यो मंगलमादधाति मध्यग्रहो यच्छति वांछितार्थम्।धर्मार्थकामादिसुखं प्रभुत्वं कलत्र पुत्रैर्न कदा वियोग: ।।7।।

कनकमयशरीरतेजसा दुर्निरीक्ष्यो हुतवह समकान्तिर्मालवे लब्धजन्मा। अवनिजतनमेषु श्रूयते य: पुराणो दिशतु मम विभूतिं भूमिज: सप्रभाव: ।।8।।

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रद: 

स्थिरामनो महाकाय: सर्वकर्मविरोधक: 

लोहितो लोहिताक्षश्च सामगानां। कृपाकरं

वैरात्मज: कुजौ भौमो भूतिदो भूमिनंदन:

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्

कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्

अंगारको यमश्चैव सर्वरोगापहारक:

वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रद:

एतानि कुजनामानि नित्यं य: श्रद्धया पठेत्

ऋणं न जायते तस्य धनं शीघ्रमवाप्रुयात् 

स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभि:

न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्

अंगारको महाभाग भगवन्भक्तवत्सल

त्वां नमामि ममाशेषमृणमाशु विनाशय:

ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यव:

भयक्लेश मनस्तापा: नश्यन्तु मम सर्वदा

अतिवक्र दुराराध्य भोगमुक्तजितात्मन:

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्

विरञ्चि शक्रादिविष्णूनां मनुष्याणां तु का कथा

तेन त्वं सर्वसत्वेन ग्रहराजो महाबल:

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गत:

ऋणदारिद्रयं दु:खेन शत्रुणां च भयात्तत:

एभिद्र्वादशभि: श्लोकैर्य: स्तौति च धरासुतम्

महतीं श्रियमाप्रोति ह्यपरा धनदो युवा:

इति श्रीस्कन्दपुराणे भार्गवप्रोक्त ऋणमोचन मंगलस्तोत्रम् 

बुध स्तोत्रम्  Budha Stotram 

बुध बीज मंत्र - ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः।

वेद मन्त्र :  ॐ उद्बुध्यध्वं समनसः सखाय समाग्नि मिध्वं बहवः सानिलः | दधिक्रामाग्निं ऋषसंच देविं इन्द्रावतो वसे निव्ह एवः ||

पुराण मन्त्र :  प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं | सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं (बुध)

बुध स्तोत्र 

पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता । धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।।

प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम ।

सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ।।2।।

सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: ।

सदाशान्त: सदाक्षेमो नमामि शशिनन्दनम ।।3।।

उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युति: ।

सूर्यप्रियकरोविद्वान पीडां हरतु मे बुधं ।।4।।

शिरीषपुष्पसंकाशं कपिलीशो युवा पुन: ।

सोमपुत्रो बुधश्चैव सदा शान्तिं प्रयच्छतु ।।5।।

श्याम: शिरालश्चकलाविधिज्ञ:, कौतूहली कोमलवाग्विलासी । रजोधिको मध्यमरूपधृक स्या-दाताम्रनेत्रो द्विजराजपुत्र: ।।6।।

अहो चन्द्रासुत श्रीमन मागधर्मासमुदभव: ।

अत्रिगोत्रश्चतुर्बाहु: खड्गखेटकधारक: ।।7।।

गदाधरो नृसिंहस्थ: स्वर्णनाभसमन्वित: ।

केतकीद्रुमपत्राभ: इन्द्रविष्णुप्रपूजित: ।।8।।

ज्ञेयो बुध: पण्डितश्च रोहिणेयश्च सोमज: ।

कुमारो राजपुत्रश्च शैशवे शशिनन्दन: ।।9।।

गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा ।

सौम्य: सौम्यगुणोपेतो रत्नदानफलप्रद: ।।10।।

एतानि बुधनामानि प्रात: काले पठेन्नर: ।

बुद्धिर्विवृद्धितां याति बुधपीडा न जायते ।।11।।

।।  इति मंत्रमहार्णवे बुधस्तोत्रम  ।।

गुरु स्तोत्रम Guru Stotram 

गुरु बीज मंत्र - ॐ ग्रां ग्रीं ग्रौं सः गुरुवे नमः।

वेद मन्त्र : ओम बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु। यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्।।

पुराण मन्त्र : देवानांच ऋषिणांच गुरुंकांचन सन्निभं| बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं (गुरु)

प्रथम स्तोत्रमिदं मन्त्रमहार्णवे उद्धृत्य…

गुरु स्तोत्रम

पीताम्बर: पीतवपु: किरीटी, चतुर्भुजो देवगुरु: प्रशान्त: |दधाति दण्डं च कमण्डलुं च, तथाक्षसूत्रं वरदोsस्तु मह्यम् ||

नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: |

नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग: ||

सदानन्द नमस्तेSस्तु नम: पीडाहराय च |

नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ||

नमोSद्वितीयरूपाय लम्बकूर्चाय ते नम: |

नम: प्रहृष्टनेत्राय विप्राणां पतये नम: ||

नमो भार्गवशिष्याय विपन्नहितकारक: |

नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ||

विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम् |

प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदम् ||

|| इति मन्त्रमहार्णवे बृहस्पतिस्तोत्रम् ||

.निम्नलिखित स्तोत्र स्कन्दपुराणे उद्धृत्य …

|| अथ श्री बृहस्पतिस्तोत्रम् ||

अस्य श्री बृहस्पतिस्तोत्रस्य गृत्समद ऋषि:, अनुष्टुप् छन्द: | बृहस्पतिर्देवता, बृहस्पति प्रीत्यर्थं जपे विनियोग:

गुरुर्बृहस्पतिर्जीव: सुराचार्यो विदां वरः |

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ||

सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः |

दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ||

लोकपूज्यो लोकगुरुः नीतिज्ञो नीतिकारकः |

तारापतिश्चाङ्गिरसो वेदवेद्यः पितामहः ||

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् |

अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ||

जीवेत् वर्षशतं मर्त्यः पापं नश्यति नश्यति |

यः पूजयेत् गुरुदिने पीतगन्धाक्षताम्बरैः ||

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् |

ब्रह्मणान् भोजयित्वाच पीडाशान्तिर्भवेत् गुरोः ||

|| इति श्री स्कन्दपुराणे बृहस्पतिस्तोत्रं सम्पूर्णम् ||


शुक्र स्तोत्रम् Shukra Stotram 

शुक्र बीज मंत्र - ॐ द्रां द्रीं द्रौं सः शुक्राय नमः।

वेद मन्त्र : शुक्रन्ते अन्यद्यजतंते अन्यद्षिषु रूपे अहन्यादौ सिवासि | विश्वाहिमाया अवसि  स्वधाओ भद्राते पूषानन्निहरातिरस्तु ||

पुराण मन्त्रं : हिमकुंद मृणालाभं दैत्यानां परमं गुरूं | सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं (शुक्र)

शुक्र स्तोत्र Shukra Stotram.

नमस्ते भार्गवश्रेष्ठ देव दानवपूजित। 

वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमोनम: ।।1।।

देवयानीपितस्तुभ्यंवेदवेदाडगपारग:। 

परेण तपसा शुद्धशडकरोलोकशडकरम ।।2।।

प्राप्तोविद्यां जीवनख्यां तस्मै शुक्रात्मने नम:। 

नमस्तस्मै भगवते भृगुपुत्रायवेधसे ।।3।।

तारामण्डलमध्यस्थ स्वभासा भासिताम्बर। 

यस्योदये जगत्सर्वमङ्गलार्ह भवेदिह ।।4।।

अस्तं यातेहरिष्टंस्यात्तस्मैमंगलरुपिणे। 

त्रिपुरावासिनो देत्यान शिवबाणप्रपीडितान् ।।5।।

विद्या जीवयच्छुको नमस्ते भृगुनन्दन। ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ।।6।।

वलिराज्यप्रदोजीवस्तस्मै जीवात्मने नम:। भार्गवाय नम: तुभ्यं पूर्व गौर्वाणवन्दित ।।7।।

जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनम:। नम: शुक्राय काव्याय भृगुपुत्राय धीमहि ।।8।।

नम: कारणरूपाय नमस्ते कारणात्मने। स्तवराजमिदं पुण्यं भार्गवस्य महात्मन: ।।9।।

य: पठेच्छ्रणुयाद्वापि लभतेवास्छितं फलम्। पुत्रकामो लभेत्पुत्रान श्रीकामो लभेत श्रियम् ।।10।।

राज्यकामो लभेद्राज्यं स्त्रीकाम: स्त्रियमुत्तमाम्। भृगुवारे प्रयत्नेन पठितव्यं समाहिते ।।11।।

अन्यवारे तु होरायां पूजयेदभृगुनन्दनम्। रोगार्तो मुच्यते रोगाद्रयार्तो मुच्यते भयात् ।।12।।

यद्यात्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा। प्रात: काले प्रकर्तव्या भृगुपूजा प्रयत्नत: ।।13।।

सर्वपापविनिर्मुक्त प्राप्नुयाच्छिवसन्निधौ ।।14।।


शनि स्तोत्र  Shanaischara stotram 

शनि बीज मंत्र - ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः।

वेद मन्त्र : ॐ शमग्निरग्नि भिःकरस्चन्नस्तपतो सूर्याः | शंवातो वात्वरपा अपश्रुधाः 

पुराण मन्त्र : नीलांजन समाभासं रविपुत्रं यमाग्रजं | छायामार्तंड संभूतं तं नमामि शनैश्वरं (शनि)                                                            शनैश्चर स्तोत्रम् 

अस्य श्री शनैश्चरस्तोत्रं दशरथः ऋषि शनैश्चरो देवता । त्रिष्टुप्‌ छंद। शनैश्चरप्रीत्यर्थे जपे विनियोगः ॥

दशरथ उवाच

कोणोऽन्तकारौद्रयमोऽख बभ्रुःकृष्णः शनि पिंगलमन्दसौरि ।

नित्य स्मृतो यो हरते पीड़ां तस्मै नमः श्रीरविनन्दाय ॥ 1 ॥

सुरासुराः किंपु-रुषोरगेन्द्रा गन्धर्वाद्याधरपन्नगाश्च

पीड्य सर्वे विषमस्थितेन तस्मै नमः ॥ 2 ॥

नराः नरेन्द्राः पुष्पत्तनानि पीड्यन्ति

सर्वे विषमस्थितेन तस्मै नमः ॥ 3 ॥

तिलेयवैर्माषुगृडान्दनैर्लोहेन नीलाम्बर-दानतो

वा प्रीणाति मन्त्रैर्निजिवासरे च तस्मै नमः ॥ 4 ॥

प्रयाग कूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम्‌ ।यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै ॥ 5 ॥

अन्यप्रदेशात्स्वः गृहंप्रविष्टदीयवारेसनरः सुखी ॥ 6 ॥

स्यात्‌ गहाद्गतो यो न पुनः प्रयतितस्मैनभ खष्टा

स्वयं भूवत्रयस्य त्रोता हशो दुःखोत्तर हस्ते पिनाकी एक स्त्रिधऋज्ञ जुःसामभूतिंतस्मै ॥ 7 ॥

शन्यष्टक यः प्रठितः प्रभाते, नित्यं सुपुत्रः पशुवान्यश्च ॥ 8 ॥

पठेतु सौख्यं भुवि भोगयुक्तः प्राप्नोतिनिर्वाण पदं तदन्ते ॥ 9 ॥

कोणस्थः पिंगलो बभ्रूः कृष्णोरौद्रान्तको यमः ॥ 10 ॥

सौरिः शनैश्चरोमन्दः पिपलादेन संस्तुतः ॥ 11 ॥

एतानि दशनामानि प्रतारुत्थाय यः पठेत्‌ ॥ 12 ॥

शनैश्चकृता पीड़ा न न कदाचिद् भविष्यति ॥ 13 ॥


राहु मन्त्रं  Raahu Mantram 

राहु बीज मंत्र - ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः।

वेद मन्त्र : ओम कया नश्चित्र आ भुवदूती सदावृध: सखा। कया शचिष्ठया वृता।।

पुराण मन्त्र : अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं | सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं (राहू)

राहुस्तोत्रम्

अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । 

ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥

कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । 

विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥

ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः । 

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥

यः पठेन्महती पीडा तस्य नश्यति केवलम् । 

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ ॥

इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥


केतु मन्त्र Ketu Mantram 

केतु बीज मंत्र - ॐ स्रां स्रीं स्रौं सः केतवे नमः।

वेद मन्त्रं : ओम केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथा:।।

पुराण मन्त्र : पलाशपुष्प संकाशं तारका ग्रह मस्तकं | रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं (केतु)

केतु स्तोत्र || Ketu Stotram

केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:।

लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।1।।

रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक्।

फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।2।।

तारागणविमर्दो च जैमिनेयो ग्रहाधिप:।

पंचविंशति नामानि केतुर्य: सततं पठेत् ।।3।।

तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत:।

धनधान्यपशूनां च भवेद् व्रद्विर्नसंशय: ।।4।।

फलश्रुति :

इति व्यासमुखोदगीतं य पठेत सुसमाहितं दिवा वा यदि वा रात्रौविघ्नशांतिर्भविष्यति नर, नारी, नृपाणांच भवेत् दु:स्वप्न नाशनंऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं


No comments:

Post a Comment