Tuesday, June 11, 2024

Achyutam Keshavam अच्युता अष्टकम्

                     अथ श्री अच्युता अष्टकम् 


श्री गुरुभ्यो नमः हरिः ॐ 
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।।1।।

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इंदिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ।।2।।

विष्णवे जिष्णवे शंखिने चक्रिणे रूक्मिणीरागिणे जानकीजानये । वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम: ।।3।।

कृष्ण गोविन्दहे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ।।4।।

राक्षसक्षोभित: सीतया शोभितो दण्डकारण्यभू पुण्यताकारण: । लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्यसम्पूजितो राघव: पातु माम् ।।5।।

धेनुकारिष्टकानिष्टकृदद्वेषिहा केशिहा कंसह्रद्वंशिकावादक: । पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा ।।6।।

विद्युदुद्योतवत्प्रस्फुरद्वाससं प्राव्रडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोर:स्थलं लोहितांगघ्रिद्वयं वारिजाक्षं भजे ।।7।।

कुञ्चितै: कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयो: । हारकेयूरकं कंकणप्रोज्ज्वलं किंकिणीमञ्जुलं श्यामलं तं भजे ।।8।।

अच्युतस्याष्टकं य: पठेदिष्टदं प्रेमत: प्रत्यहं पूरुष: सस्प्रहम् ।वृत्तत: सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ।।9।
इति श्री अच्युताष्टकं  संपूर्णं 

No comments:

Post a Comment