श्री गुरुभ्यो नमः हरी ॐ
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ।।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ।।
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ।।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ।।
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ।।
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ।।
विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् ।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।।
सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ।।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ।।
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ।।
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ।।
नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ।।
इति श्री श्रीपुंडरीकाक्ष स्तोत्रम् संपूर्णं
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ।।
इति श्री श्रीपुंडरीकाक्ष स्तोत्रम् संपूर्णं
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment