श्री गुरुभ्यो नमः हरी: ॐ
अस्यश्री शनैश्चर स्तोत्र मंत्रस्य दशरथ ऋषिः | शनैश्चरोर्देवता त्रिष्टुप छंदः |
शनैश्चर प्रीत्यर्थ जपे विनियोगः |अथ ध्यानं |
कोणोंतकोरौद्र यमोथबभ्रुः कृष्णः शनिः पिङ्गल मंद सौरि |
नित्यः स्मृतेयो हरतेचपीडातस्मै नमः श्री रविनन्दनाय | १ |
सुरासुराः पुरुषाणणेन्द्रागन्धर्वविद्याधर पन्नगाश्च |
पीड्यन्तिसर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | २ |
नरा नरेंद्रा पशवो मृगेंद्रावन्याश्चये कीट पतंग भृंग |
पीड्यन्तिसर्वे विषमस्थितेन तस्मैनमः श्रीरविनन्दनाय | ३ |
देशाश्च दुर्गाणि वनानियत्र सेना निवेशाः पुर पत्तनानि |
पीड्यन्तिसर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | ४ |
तिलैर्यवैर्माष गुडान्न दानैर्लोहेन निलांबरदानतोवा |
प्रीणाति मन्त्रैर्निज वासरेच तस्मैनमः श्रीरविनन्दनाय | ५ |
प्रयाग कूले यमुना तटेच सरस्वती पुण्य जलै गृहाणां |
यो योगिनां ध्यानगतोऽपि सूक्ष्मः तस्मैनमःश्री रविनन्दनाय | ६ |
अन्यः प्रदेशा स्वगुहं प्रविष्ठः स्त्वदीय वारे स नरः सुखस्यात |
गृहाद्गतोयो न पुनः प्रयाति तस्मै नमः श्री रविनन्दनाय | ७ |
सुष्ट्वा स्वयंभू र्भुव नत्रयस्य त्राता हरिः संहरते पिनाकी |
एकस्त्रिधा ऋग्युजुः साममुर्तिः तस्मै नमः श्री रविनन्दनाय | ८ |
शन्यष्टकं यः पठतिः प्रभाते नित्यं सुपुत्रैः पशु बाम्धवैश्च |
पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाण पदं परं सः | ९ |
कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोंतको यमः |
सौरी शनैश्चरो मंदः पिप्पलादेन संस्तुतः | १० |
एतानि दश नामानि प्रातरुत्थाय यः पठेत् |
शनैश्चर कृतां पीडा नाकदाचिद भविष्यति | ११ |
इति श्री दशरथ प्रोक्तं शनैश्चर स्तोत्रम् संपूर्णम् |
दशरथ कृत शनि स्तोत्रम्
ध्यानम्:
नमो कृष्णाय नीलाय शितिकण्ठनिभाय च।
नमः कालाग्निरूपाय कृतान्ताय च वै नमः॥
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च।
नमो विशालनेत्राय शुष्कोदरभयाकृते॥
स्तोत्र:
नमः पुष्कलगात्राय स्थूलरोम्णे च वै नमः।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते॥
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः।
नमो घोराय रौद्राय भीषणाय कपालिने॥
नमस्ते सर्वभक्षाय बलीमुखाय नमोऽस्तु ते।
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च॥
अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तु ते।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तु ते॥
तपसा दग्धदेहाय नित्यं योगरताय च।
नमो नित्यं क्षुधार्ताय अतृप्ताय नमोऽस्तु ते॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात्॥
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः।
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः॥
प्रसादं कुरु मे सौरे ! जगद्रूप ! नमोऽस्तु ते।
कोणात् कृष्णो पिंगलो बभ्रु कृष्णौ रौद्रोऽन्तकस्तथा॥
यमः सौरिर्हनिर्मन्दः पिप्पलादेन संस्तुतः।
एतानि दश नामानि प्रातरुत्थाय यः पठेत्॥
शनैश्चरकृता पीडा न कदाचिद्भविष्यति।
श्री कृष्णार्र्पणमस्तु |

No comments:
Post a Comment