Saturday, March 14, 2026

LAKSHMI STOTRAM श्री लक्ष्मीस्तोत्रं अगस्त्यरचितम्

                श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् 




श्री गुरुभ्यो नमः हरी: ॐ 

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।

जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ १॥


महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।

हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ २॥


पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।

सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ ३॥


जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।

दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ ४॥


नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।

वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥ ५॥


रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।

दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥ ६॥


नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।

ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥ ७॥


विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।

आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥ ८॥


अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।

चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः ॥ ९॥


नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः ।

परिपालय भो मातर्मां तुभ्यं शरणागतं ॥ १०॥


शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।

त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥ ११॥


पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे ।

शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥ १२॥


तावद्विराजते रूपं तावच्छीलं विराजते ।

तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥ १३॥


लक्ष्मित्वयालङ्कृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः ।गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः ॥ १४॥


लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं ।

लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥ १५॥


लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्वतां

रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ।


अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते

मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं ॥ १६॥


दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं ।

कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु ॥ १७॥


मां विलोक्य जननि हरिप्रिये । निर्धनं त्वत्समीपमागतं ॥

देहि मे झटिति लक्ष्मि । कराग्रं वस्त्रकाञ्चनवरान्नमद्भुतं ॥ १८॥


त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ।

भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥ १९॥


त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।

त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ॥ २०॥


नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।

धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥ २१॥


दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले ।

मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं ॥ २२॥


किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।

अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥ २३॥


एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया ।

उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥ २४॥


लक्ष्मीरुवाच ।

यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।

शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥ २५॥


नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।

रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ॥ २६॥


यः पठेत्प्रातरुत्थाय श्रद्धा-भक्तिसमन्वितः ।

गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ॥ २७॥


सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत् ।

पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥ २॥


इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितं ।

विष्णुप्रसादजननं चतुर्वर्गफलप्रदं ॥ २९॥


राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।

भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ ३०॥


न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते ।

दुर्वृत्तानां च पापानां बहुहानिकरं परं ॥ ३१॥


मन्दुराकरिशालासु गवां गोष्ठे समाहितः ।

पठेत्तद्दोषशान्त्यर्थं महापातकनाशनं ॥ ३२॥


सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।

अगस्रिआमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ ३३॥


॥ इत्यगस्तिमुनिविरचितं श्रीमहालक्ष्मीस्तोत्रं सम्पूर्णं ॥ 

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment