Wednesday, June 24, 2026

Crisis Shri Bhairava Ashtakam कष्टहर श्री भैरवाष्टक स्तोत्रम्

                                  श्री भैरव ताण्डव स्तोत्रम् 

कष्ट हर श्री भैरवाष्टक स्तोत्रम्
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ॥

अथ श्री भैरव ताण्डव स्तोत्रम् ।

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं
लोकं सुखयन्तं विलसितसन्तं प्रकटितदन्तं नृत्यकरम् ।
डमरुध्वनिमन्तं तरलवतंसं मधुरहसन्तं लोकभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥

चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं
किङ्किणिगणरावं त्रिभुवनपावं खर्परसावं पुण्यभरम् ।
करुणामयवेषं सकलसुरेशं मुक्तसुकेशं पापहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ २॥

कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं
कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् ।
गतिनिन्दितकेशं नरनुतहंसं स्वच्छकशं सन्मुण्डकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ३॥

कठिनस्तनकुम्भं सुकृतसुलम्भं कालीडिम्भं खड्गधरं
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।
तनुभाजितशेषं विलमसुदेशं सर्वसुरेशं प्रीतिन llरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ४॥

ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं
सुखिताखिललोकं परिहृतशोकं शुद्धविलोकं पुष्टिकरम् ।
वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ५॥

सकलायुधभारं विजनविहारं विश्वविसारं भ्रष्टमलं
शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।
पदनूपूरशिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्ठहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ६॥

मदयुतसंरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।
कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्ध्रीकं प्रेमभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ७॥

परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं
बहुमद्यपनाथं गीतसुगाथं कृष्टसुनाथं वीरेशम् ।
कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं दत्तवरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ८॥

इति श्री भैरवताण्डव स्तोत्रं अथवा कष्टहरं श्रीभैरवाष्टक स्तोत्रं सम्पूर्णम् 

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment