Wednesday, November 20, 2019

ASHWATHA STOTRA 3 PURASHCHARANA || श्री अश्वत्थ स्तोत्र (एकवार) पुरश्चरण ||

 || श्री अश्वत्थ स्तोत्र (एकवार) पुरश्चरण ||
श्री गणेशाय नमः ।
हरिः ॐ
श्री नारदौवाच ।
अनायासेन लोकोयं सर्वान् कामानवाप्नुयात्  । सर्व देवात्मकं  चैव  तन्मै ब्रूहि  महत्पितः । १ ।
श्री ब्रह्मौवाच ।
शृणु देव मुनोश्वत्थं  शुद्धं सर्वात्मकं तरुं ।  यत्प्रदषिणतॊ लोकः सर्व कामान् समश्नुते । २ ।

अश्वत्था  दक्षिणो रुद्रः पश्चिमे  विष्णुरास्थितः।  ब्रह्माचोत्तर  देशस्थः पूर्वेत्  इंद्रादिदेवता। 3 |

स्कंधोप स्कंध पत्रेषु गोविप्र मुनयस्थथः । 
मूलं वेदा पयो यज्ञ्या संस्थिता मुनि पुंगवः  । ४ ।

पूर्वादि दिक्षु संयाता नदिनद्  सरोब्दयः  । 
तस्मात्  सर्व  प्रयत्नेन अश्वत्थः संश्रयेद् बुधः। ५ ।

त्वं  क्षीर्य  फलकश्चैव  शीतलश्च  वनस्पते । त्वमाराध्य नरो  विद्या दैहिकं  मुष्मिकं  फलं । ६ ।

अश्वत्थ यस्मात्वयि वृक्षराज नारायण तिष्ठति सर्वकालं ।अतः शृतस्त्वं सततंतरूणाम्  धन्योचारिष्ट विनाशकोशि । ७ । 
क्षीरदस्त्वं च  एनेह  एनः  श्री स्त्वाम्  निषेवते ।  सत्येन  तेन  वृक्षॆंद्र  मामपि  श्रीर्निषेवतां । ८ ।

एकादशात्मा  रुद्रोसि   वसुनाथ  शिरोमणिः  ।  शनैश्चरोसि  देवानां  वृक्षराजोसि  पिप्पलः । ९ ।
अग्निगर्भः  शमी गर्भो  देव गर्भः  प्रजापति:  ।  हिरण्य गर्भो  भूगर्भो  यज्ञगर्भो नमोस्तुते । १० ।
आयुर्बलं  यशोवर्चः   प्रजाः  पशु वसूनिच  ।  ब्रह्म  प्रज्ञान्च  मेधांच त्वनो देहि नमोस्तुते  । ११ ।
सततं वरुणो  रक्षो  त्वमारादृष्टिराश्रयेत्  । परितस्त्वां  निषेवंतां  निंबकः सुखमश्नु ते । १२ |
अक्षिस्पंदं  भुजस्पंदं दुस्वप्नं दुर्वि चिंतनं  ।  शत्रूणां च समुत्थानं  अश्वत्थः शमय प्रभो  । १३ । 
य दृष्ट्वा मुच्यतॆ रोगैः  स्पृष्ट्वा पापै : प्रमुच्यतॆ  ।  यदाश्रया चिरंजीवि  त्वमश्वत्थं  नमाम्यहं  । १४ ।
अश्व त्थः समुहाभागः सुभगः  प्रियदर्शनः । इष्टकामाश्चमे देहि  शस्त्रुर्भ्यस्तु  पराभवं। १५ । 
आयुः प्रजां धनं धान्यं सौभाग्यं सर्व संपदः  । देहि  देव  महावृक्ष  त्वामहं  शरणं गतः । १६ ।
ऋग्युजुः साम मंत्रात्मा सर्व रूपि परात्परः  ।  अश्वत्थो वेद मूलोसा वृषिभिः प्रोच्यतॆ सद । १७ ।
ब्रह्मा गोविदाश्चैव धृतिर् देवादि  क्रीडितः। आवृत्य लक्ष संख्यं च स्तोत्र  मेतत्  सुखी  भवेत् । १८ ।
एकहस्तं द्विहस्तं वा  कूर्याद् गोमय लेपनं  ।  अर्चयेत्  पुरुष सूक्तेन  प्रणवेन  विशेषतः । १९ ।
मौनि प्रदक्षिणं  कूर्यात् प्राग्युक्त  फलभाग् भवेत् । विष्णोर्नाम  सहस्रेण  अच्युतस्यापि  कीर्तनात्। २० ।
पदे पादांतरंगत्वा  करचेष्टा  विवर्जितः  ।  वाचि  स्तोत्रं  मनोध्यानॆ चतुरंग प्रदक्षिणं  । २१ ।
अश्वत्थः स्थापितोयेन  तत् कुलं स्थापितं ततः  ।  धनायुषां समृध्धिस्तु  नरकात् तारयेत् पितन् | २२ । 
अश्वत्थ मूलमाश्रित्य  जप होम सुरर्चनात्  ।  अक्षयं फल माप्नो ती अगस्त्यो वचनं यथः । २३ ।
एवं आश्वाशितोSश्वत्थ:  सदा श्वासाय कल्पते ।  यज्ञार्थ  छेदितोश्वत्थे अक्षयं स्वर्ग माप्नुयात् । २४ ।
छिन्नोयेन  वृथाश्वत्थ   छेदिता  पितृदेवता  ।  अश्वत्थः पूजितो यत्र  पूजिता सर्व  देवता  । २५ ।
यो अश्वत्थ रूपेण नदी तटाके | विराजते सर्व जगन्निवासः | 
ब्रह्मादि देवाच्युत पाद पल्लवो | गोविन्दराजो वतुमां परेशः | २६ |  
शङ्खं चक्र गदाम्बुज चाप बाणै | राराजितै श्चन्द्रल लक्ष्मी समेतः | 
शर्वादि देवार्चित पाद पल्लवो | गोविन्दराजो वतुमां परेशः | २७ |
अभयं गदिनञ्च शङ्ख चक्रं | चापं तुणिरं द्रष्टमयं तदैव |
ते नैव रूपेण चतुर्भुजेन | प्रलयान्तको भव विश्वमूर्ते  | २८ |
इती श्री ब्रह्मांड पुराणॆ  ब्रह्म नारद संवादॆ श्रीमद् अश्वत्थ स्तोत्रं संपूर्ण  
             । श्री कृष्णार्पणमस्तु ।

No comments:

Post a Comment